Observed on Śukla-Tṛtīyā tithi of Jyaiṣṭha (lunar) month. Rambha Vratam; perform Savitri pooja near Banana tree. Offer naivedyam of bananas prepared with ghee.
पुष्पमण्डपिका कार्या रम्भास्तम्भोपशोभिता। तत्र सम्पूजयेद्देवीं शक्त्या स्वर्णादिनिर्मिताम् ॥
वेदेषु सर्वशास्त्रेषु दिवि भूमौ रसातले। श्रुतो दृष्टश्च बहुशो न शक्त्या रहितः शिवः। त्वं शक्स्तिस्त्वं स्वधा स्वाहा त्वं सावित्री सरस्वती। पतिं देहि सुतान्देहि गृहं देवि नमोऽस्तु ते॥
योषितः पुरुषो वाऽपि ख्यातं रम्भाव्रतं भुवि। भार्यां पुत्रं गृहं भोगान् कुलवृद्धिमवाप्नुयुः॥